इतश्च अविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयान् ? इति प्रष्टुरभिप्रायो भाति, इत्याह -
प्रतिवचनेति ।
किं तत्प्रतिवचनं ? कथं वा तन्निरूपणम् ? इति पृच्छति -
कथमिति ।
तत्र प्रतिवचनं दर्शयति -
संन्यासेति ।
तन्निरूपणं कथयति -
एतदिति ।
तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं च इत्यर्थः ।
गुणदोषविभागविवेकार्थं पृच्छति - किञ्चेति । अतः अस्मिन् आद्ये पक्षे किं दूषणम् ? अस्मिन्वा द्वितीये पक्षे किं फलम् ? इति प्रश्नार्थः । तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति -
अत्रेत्यादिना ।
तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति -
यदीत्यादिना ।
निःश्रेयसकरत्वोक्तिरित्यत्र पारम्पर्येणेति द्रष्टव्यम् । विशिष्टत्वाभिधानमिति प्रतियोगिनोऽसहायत्वाद् अस्य च शुद्धिद्वारा ज्ञानार्थत्वात् इत्यर्थः ।