श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
संन्यासं कर्मणां कृष्ण पुनर्योगं शंससि
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
प्रतिवचनवाक्यार्थनिरूपणेनापि प्रष्टुः अभिप्रायः एवमेवेति गम्यते । कथम् ? ‘संन्यासकर्मयोगौ निःश्रेयसकरौ तयोस्तु कर्मयोगो विशिष्यते’ (भ. गी. ५ । २) इति प्रतिवचनम् । एतत् निरूप्यम् — किं अनेन आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोः निःश्रेयसकरत्वं प्रयोजनम् उक्त्वा तयोरेव कुतश्चित् विशेषात् कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ? आहोस्वित् अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तदुभयम् उच्यते ? इति । किञ्चातः — यदि आत्मवित्कर्तृकयोः कर्मसंन्यासकर्मयोगयोः निःश्रेयसकरत्वम् , तयोस्तु कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वम् उच्यते ; यदि वा अनात्मवित्कर्तृकयोः संन्यासकर्मयोगयोः तदुभयम् उच्यते इति । अत्र उच्यते — आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोः असम्भवात् तयोः निःश्रेयसकरत्ववचनं तदीयाच्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येतत् उभयम् अनुपपन्नम् । यदि अनात्मविदः कर्मसंन्यासः तत्प्रतिकूलश्च कर्मानुष्ठानलक्षणः कर्मयोगः सम्भवेताम् , तदा तयोः निःश्रेयसकरत्वोक्तिः कर्मयोगस्य च कर्मसंन्यासात् विशिष्टत्वाभिधानम् इत्येतत् उभयम् उपपद्येत । आत्मविदस्तु संन्यासकर्मयोगयोः असम्भवात् तयोः निःश्रेयसकरत्वाभिधानं कर्मसंन्यासाच्च कर्मयोगः विशिष्यते इति च अनुपपन्नम् ॥

इतश्च अविद्वत्कर्तृकयोः संन्यासकर्मयोगयोः कतरः श्रेयान् ? इति प्रष्टुरभिप्रायो भाति, इत्याह -

प्रतिवचनेति ।

किं तत्प्रतिवचनं ? कथं वा तन्निरूपणम् ? इति पृच्छति -

कथमिति ।

तत्र प्रतिवचनं दर्शयति -

संन्यासेति ।

तन्निरूपणं कथयति -

एतदिति ।

तदुभयमिति निःश्रेयसकरत्वं कर्मयोगस्य श्रेष्ठत्वं च इत्यर्थः ।

गुणदोषविभागविवेकार्थं पृच्छति - किञ्चेति । अतः अस्मिन् आद्ये पक्षे किं दूषणम् ? अस्मिन्वा द्वितीये पक्षे किं फलम् ? इति प्रश्नार्थः । तत्र सिद्धान्ती प्रथमपक्षे दोषमादर्शयति -

अत्रेत्यादिना ।

तदेवानुपपन्नत्वं व्यतिरेकद्वारा विवृणोति -

यदीत्यादिना ।

निःश्रेयसकरत्वोक्तिरित्यत्र पारम्पर्येणेति द्रष्टव्यम् । विशिष्टत्वाभिधानमिति प्रतियोगिनोऽसहायत्वाद् अस्य च शुद्धिद्वारा ज्ञानार्थत्वात् इत्यर्थः ।