श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अत्र आहकिम् आत्मविदः संन्यासकर्मयोगयोः उभयोरपि असम्भवः ? आहोस्वित् अन्यतरस्य असम्भवः ? यदा अन्यतरस्य असम्भवः, तदा किं कर्मसंन्यासस्य, उत कर्मयोगस्य ? इति ; असम्भवे कारणं वक्तव्यम् इतिअत्र उच्यतेआत्मविदः निवृत्तमिथ्याज्ञानत्वात् विपर्ययज्ञानमूलस्य कर्मयोगस्य असम्भवः स्यात्जन्मादिसर्वविक्रियारहितत्वेन निष्क्रियम् आत्मानम् आत्मत्वेन यो वेत्ति तस्य आत्मविदः सम्यग्दर्शनेन अपास्तमिथ्याज्ञानस्य निष्क्रियात्मस्वरूपावस्थानलक्षणं सर्वकर्मसंन्यासम् उक्त्वा तद्विपरीतस्य मिथ्याज्ञानमूलकर्तृत्वाभिमानपुरःसरस्य सक्रियात्मस्वरूपावस्थानरूपस्य कर्मयोगस्य इह गीताशास्त्रे तत्र तत्र आत्मस्वरूपनिरूपणप्रदेशेषु सम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् अभावः प्रतिपाद्यते यस्मात् , तस्मात् आत्मविदः निवृत्तमिथ्याज्ञानस्य विपर्ययज्ञानमूलः कर्मयोगो सम्भवतीति युक्तम् उक्तं स्यात्

आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोः असम्भवे दर्शिते, चोदयति   -

अत्राहेति ।

चोदयिता निर्धारणार्थं विमृशति -

किमित्यादिना ।

अन्यतरासम्भवेऽपि सन्देहात् प्रश्नोऽवतरति इत्याह -

यदा चेति ।

यस्य कस्यचिदन्यतरस्य असम्भवो भविष्यति इत्याशङ्क्य, कारणमन्तरेणासम्भवो भवन् अतिप्रसङ्गी स्यात् , इति मन्वानःसन् आह -

असम्भव इति ।

आत्मविदः सकारणं कर्मयोगासम्भवं सिद्धान्ती दर्शयति -

अत्रेति ।

सङ्ग्रहवाक्यं विवृण्वन् आत्मावित्त्वं विवृणोति -

जन्मादीति ।

तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वं, तदिदानीं व्यनक्ति सम्यगिति ।

विपर्ययज्ञानमूलस्येत्यादिना उक्तं प्रपञ्चयति -

निष्क्रियेति ।

यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः ।

वैपरीत्यं स्फोरयन् कर्मयोगमेव विशिनष्टि -

मिथ्याज्ञानेति ।

मिथ्या च तत् अज्ञानं चेति अनाद्यनिर्वाच्यमज्ञानं, तन्मूलः अहं कर्ता इत्यात्मनि कर्तृत्वाभिमानः तज्जन्यः, तस्येति यावत् ।

यथोक्तं संन्यासमुक्त्वा यथोक्तकर्मयोगस्य असम्भवप्रतिपादने हेतुमाह -

सम्यग्ज्ञानेति ।

कुत्र तदभावप्रतिपादनं ? तदाह -

इहेति ।

उक्तं हेतुं कृत्वा आत्मज्ञस्य कर्मयोगासम्भवे फलितमाह -

यस्मादिति ।