आत्मज्ञस्य कर्मसंन्यासकर्मयोगयोः असम्भवे दर्शिते, चोदयति -
अत्राहेति ।
चोदयिता निर्धारणार्थं विमृशति -
किमित्यादिना ।
अन्यतरासम्भवेऽपि सन्देहात् प्रश्नोऽवतरति इत्याह -
यदा चेति ।
यस्य कस्यचिदन्यतरस्य असम्भवो भविष्यति इत्याशङ्क्य, कारणमन्तरेणासम्भवो भवन् अतिप्रसङ्गी स्यात् , इति मन्वानःसन् आह -
असम्भव इति ।
आत्मविदः सकारणं कर्मयोगासम्भवं सिद्धान्ती दर्शयति -
अत्रेति ।
सङ्ग्रहवाक्यं विवृण्वन् आत्मावित्त्वं विवृणोति -
जन्मादीति ।
तस्य यदुक्तं निवृत्तमिथ्याज्ञानत्वं, तदिदानीं व्यनक्ति सम्यगिति ।
विपर्ययज्ञानमूलस्येत्यादिना उक्तं प्रपञ्चयति -
निष्क्रियेति ।
यथोक्तसंन्यासमुक्त्वा ततो विपरीतस्य कर्मयोगस्याभावः प्रतिपाद्यत इति सम्बन्धः ।
वैपरीत्यं स्फोरयन् कर्मयोगमेव विशिनष्टि -
मिथ्याज्ञानेति ।
मिथ्या च तत् अज्ञानं चेति अनाद्यनिर्वाच्यमज्ञानं, तन्मूलः अहं कर्ता इत्यात्मनि कर्तृत्वाभिमानः तज्जन्यः, तस्येति यावत् ।
यथोक्तं संन्यासमुक्त्वा यथोक्तकर्मयोगस्य असम्भवप्रतिपादने हेतुमाह -
सम्यग्ज्ञानेति ।
कुत्र तदभावप्रतिपादनं ? तदाह -
इहेति ।
उक्तं हेतुं कृत्वा आत्मज्ञस्य कर्मयोगासम्भवे फलितमाह -
यस्मादिति ।