केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभावः प्रतिपाद्यते इति अत्र उच्यते — ‘अविनाशि तु तत्’ (भ. गी. २ । १७) इति प्रकृत्य ‘य एनं वेत्ति हन्तारम्’ (भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’ (भ. गी. २ । २१) इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥