श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
संन्यासं कर्मणां कृष्ण पुनर्योगं शंससि
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥
केषु केषु पुनः आत्मस्वरूपनिरूपणप्रदेशेषु आत्मविदः कर्माभावः प्रतिपाद्यते इति अत्र उच्यते — ‘अविनाशि तु तत्’ (भ. गी. २ । १७) इति प्रकृत्य ‘य एनं वेत्ति हन्तारम्’ (भ. गी. २ । १९) ‘वेदाविनाशिनं नित्यम्’ (भ. गी. २ । २१) इत्यादौ तत्र तत्र आत्मविदः कर्माभावः उच्यते ॥

इह शास्त्रे तत्र तत्रेत्यादौ उक्तमेव व्यक्तीकर्तुं पृच्छति -

केषु केष्विति ।

तानेव प्रदेशान्दर्शयति -

अत्रेति ।