ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वात् नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्क्य, विस्तरेण उक्तमेव सम्बन्धं पुनः सङ्क्षेपतो दर्शयति -
ज्यायसी चेदिति ।
साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वात् न पुनः प्रश्नयोग्यत्वमित्यर्थः ।
इतोऽपि न तयोः प्रश्नविषयत्वम् , इत्याह -
नचेति ।
एवकारविशेषणात् ज्ञानसहिसंन्यासस्य सिद्धसाधनत्वं भगवतोऽभिमतम् । ‘छित्त्वैनं संशयं योगमातिष्ठ'(भ.गी.४ - ४२) इति च कर्मयोगस्य विधानात् तस्यापि सिद्धसाधनत्वमिष्टम् । ततश्च निर्णीतत्वात् न प्रश्नः तद्विषयः सिध्यतीत्यर्थः ।
केनाभिप्रायेण तर्हि प्रश्नः स्यात् ? इत्याशङ्क्य, ज्ञानरहितसंन्यासात् कर्मयोगस्य प्रशस्यतरत्वबुभुत्सया, इत्याह -
ज्ञानरहित इति ।