श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्यायसी चेत्कर्मणस्ते’ (भ. गी. ३ । १) इत्यत्र ज्ञानकर्मणोः सह असम्भवे यच्छ्रेय एतयोः तद्ब्रूहि’ (भ. गी. ३ । २) इत्येवं पृष्टोऽर्जुनेन भगवान् साङ्‍ख्यानां संन्यासिनां ज्ञानयोगेन निष्ठा पुनः कर्मयोगेन योगिनां निष्ठा प्रोक्तेति निर्णयं चकार संन्यसनादेव केवलात् सिद्धिं समधिगच्छति’ (भ. गी. ३ । ४) इति वचनात् ज्ञानसहितस्य सिद्धिसाधनत्वम् इष्टम्कर्मयोगस्य , विधानात्ज्ञानरहितस्य संन्यासः श्रेयान् , किं वा कर्मयोगः श्रेयान् ? ’ इति एतयोः विशेषबुभुत्सया

ननु तृतीये यथोक्तप्रश्नस्य भगवता निर्णीतत्वात् नात्र प्रश्नप्रतिवचनयोः सावकाशत्वमित्याशङ्क्य, विस्तरेण उक्तमेव सम्बन्धं पुनः सङ्क्षेपतो दर्शयति -

ज्यायसी चेदिति ।

साङ्ख्ययोगयोर्भिन्नपुरुषानुष्ठेयत्वेन निर्णीतत्वात् न पुनः प्रश्नयोग्यत्वमित्यर्थः ।

इतोऽपि न तयोः प्रश्नविषयत्वम् , इत्याह -

नचेति ।

एवकारविशेषणात् ज्ञानसहिसंन्यासस्य सिद्धसाधनत्वं भगवतोऽभिमतम् । ‘छित्त्वैनं संशयं योगमातिष्ठ'(भ.गी.४ - ४२) इति च कर्मयोगस्य विधानात् तस्यापि सिद्धसाधनत्वमिष्टम् । ततश्च निर्णीतत्वात् न प्रश्नः तद्विषयः सिध्यतीत्यर्थः ।

केनाभिप्रायेण तर्हि प्रश्नः स्यात् ? इत्याशङ्क्य, ज्ञानरहितसंन्यासात् कर्मयोगस्य प्रशस्यतरत्वबुभुत्सया, इत्याह -

ज्ञानरहित इति ।