एवं प्रश्ने प्रवृत्ते कर्मयोगस्य सौकर्यमभिप्रेत्य प्रशस्यतरत्वमभिधित्सुः भगवान् प्रतिवचनं किमुक्तवान् ? इत्याशङ्क्य, आह -
संन्यास इति ।
उभयोरपि तुल्यत्वशङ्कां वारयति -
तयोस्त्विति ।
कथं तर्हि ज्ञानस्यैव मोक्षोपायत्वं विवक्ष्यते ? तत्राह -
ज्ञानोत्पत्तीति ।
तर्हि द्वयोरपि प्रशस्यत्वम् अप्रशस्यत्वं वा तुल्यम् , इत्याशङ्क्य, आह –
उभाविति ।
ज्ञानसहायस्य कर्मसंन्यासस्य कर्मयोगापेक्षया विशिष्टत्वविवक्षया विशिनष्टि -
केवलादिति
॥ २ ॥