श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञेयः नित्यसंन्यासी यो द्वेष्टि काङ्क्षति
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
ज्ञेयः ज्ञातव्यः कर्मयोगी नित्यसंन्यासी इति यो द्वेष्टि किञ्चित् काङ्क्षति दुःखसुखे तत्साधने एवंविधो यः, कर्मणि वर्तमानोऽपि नित्यसंन्यासी इति ज्ञातव्यः इत्यर्थःनिर्द्वन्द्वः द्वन्द्ववर्जितः हि यस्मात् महाबाहो सुखं बन्धात् अनायासेन प्रमुच्यते ॥ ३ ॥

यथा अनुष्ठीयमानानि कर्माणि संन्यासिनं न निबध्नन्ति, कृतानि च वैराग्येन्द्रियसंयमादिना निवर्तन्ते ; तथैव अनभिसंहितफलानि नित्यनैमित्तिकानि योगिनमपि न निबध्नन्ति, निवर्तयन्ति च सञ्चितं दुरितम् , इत्यभिप्रेत्य, आह -

निर्द्वन्द्वो हीति ।

कर्मयोगिनो नित्यसंन्यासित्वज्ञानम् अन्यथाज्ञानत्वात् मिथ्याज्ञानम् , इत्याशङ्क्य, आह -

एवंविध इति ।

कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातुमुचितम् इत्यर्थः ।

रागद्वेषरहितस्य अनायासेन बन्धप्रध्वंससिद्धेश्च युक्तं तस्य संन्यासित्वम् , इत्याह -

निर्द्वन्द्व इति

॥ ३ ॥