यथा अनुष्ठीयमानानि कर्माणि संन्यासिनं न निबध्नन्ति, कृतानि च वैराग्येन्द्रियसंयमादिना निवर्तन्ते ; तथैव अनभिसंहितफलानि नित्यनैमित्तिकानि योगिनमपि न निबध्नन्ति, निवर्तयन्ति च सञ्चितं दुरितम् , इत्यभिप्रेत्य, आह -
निर्द्वन्द्वो हीति ।
कर्मयोगिनो नित्यसंन्यासित्वज्ञानम् अन्यथाज्ञानत्वात् मिथ्याज्ञानम् , इत्याशङ्क्य, आह -
एवंविध इति ।
कर्मिणोऽपि रागद्वेषाभावेन संन्यासित्वं ज्ञातुमुचितम् इत्यर्थः ।
रागद्वेषरहितस्य अनायासेन बन्धप्रध्वंससिद्धेश्च युक्तं तस्य संन्यासित्वम् , इत्याह -
निर्द्वन्द्व इति
॥ ३ ॥