श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
साङ्‍ख्ययोगौ पृथग्बालाः प्रवदन्ति पण्डिताः
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
साङ्‍ख्ययोगौ पृथक् विरुद्धभिन्नफलौ बालाः प्रवदन्ति पण्डिताःपण्डितास्तु ज्ञानिन एकं फलम् अविरुद्धम् इच्छन्तिकथम् ? एकमपि साङ्ख्ययोगयोः सम्यक् आस्थितः सम्यगनुष्ठितवान् इत्यर्थः, उभयोः विन्दते फलम्उभयोः तदेव हि निःश्रेयसं फलम् ; अतः फले विरोधः अस्ति

विवेकिनः तर्हि कथं वदन्ति ? इत्याकाङ्क्षायाम् , आह -

एकमिति ।

संस्व्याम् आत्मसमीक्षाम् अर्हतीति साङ्ख्यं - संन्यासः, योगस्तु कर्मयोगः, तावुभावपि । पृथगित्यस्य अर्थमाह -

विरुद्धेति ।

शास्त्रार्थविवेकशून्यत्वं बालत्वम् ।

उत्तरार्धमवतारयितुं भूमिकां करोति -

पण्डितास्त्विति ।

ज्ञानिनो योगिनश्चेति शेषः ।

द्वयोः अविरुद्धफलत्वमेव प्रश्नपूर्वकं प्रकटयति -

कथमित्यादिना ।

एकं साधनमनुष्ठितवतः द्वयोरपि फलं भवतीति विरुद्धम् , इत्याशङ्क्य आह -

उभयोरिति ।

साङ्ख्ययोगयोः संन्यासकर्मानुष्ठानयोः तत्त्वज्ञानद्वारा निःश्रेयसफलत्वात् न विरुद्धफलत्वशङ्का इत्यर्थः ।