विवेकिनः तर्हि कथं वदन्ति ? इत्याकाङ्क्षायाम् , आह -
एकमिति ।
संस्व्याम् आत्मसमीक्षाम् अर्हतीति साङ्ख्यं - संन्यासः, योगस्तु कर्मयोगः, तावुभावपि । पृथगित्यस्य अर्थमाह -
विरुद्धेति ।
शास्त्रार्थविवेकशून्यत्वं बालत्वम् ।
उत्तरार्धमवतारयितुं भूमिकां करोति -
पण्डितास्त्विति ।
ज्ञानिनो योगिनश्चेति शेषः ।
द्वयोः अविरुद्धफलत्वमेव प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।
एकं साधनमनुष्ठितवतः द्वयोरपि फलं भवतीति विरुद्धम् , इत्याशङ्क्य आह -
उभयोरिति ।
साङ्ख्ययोगयोः संन्यासकर्मानुष्ठानयोः तत्त्वज्ञानद्वारा निःश्रेयसफलत्वात् न विरुद्धफलत्वशङ्का इत्यर्थः ।