श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
साङ्‍ख्ययोगौ पृथग्बालाः प्रवदन्ति पण्डिताः
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
संन्यासकर्मयोगयोः भिन्नपुरुषानुष्ठेययोः विरुद्धयोः फलेऽपि विरोधो युक्तः, न तु उभयोः निःश्रेयसकरत्वमेव इति प्राप्ते इदम् उच्यते —

यदुक्तं संन्यासकर्मयोगयोर्निःश्रेयसकरत्वं, तद् आक्षिपति -

संन्यासेति ।

तत्र उत्तरत्वेन उत्तरश्लोकमवतारयति -

इति प्राप्त इति ।