श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्साङ्‍ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते
एकं साङ्‍ख्यं योगं यः पश्यति पश्यति ॥ ५ ॥
यत् साङ्ख्यैः ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं मोक्षाख्यम् , तत् योगैरपि ज्ञानप्राप्त्युपायत्वेन ईश्वरे समर्प्य कर्माणि आत्मनः फलम् अनभिसन्धाय अनुतिष्ठन्ति ये ते योगाः योगिनः तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यते इत्यभिप्रायःअतः एकं साङ्‍ख्यं योगं यः पश्यति फलैकत्वात् पश्यति सम्यक् पश्यतीत्यर्थः — ॥ ५ ॥

केचिदेव तयोरेकफलत्वं पश्यन्ति इत्याशङ्य, तेषामेव सम्यग्दर्शित्वं, नेतरेषाम् , इत्याह -

एकमिति ।

तिष्ठत्यस्मिन् , न च्यवते पुनः इति व्युत्पत्तिमाश्रित्य आह -

मोक्षाख्यमिति ।

योगशब्दार्थमाह -

ज्ञानप्राप्तीति ।

ये हि जिज्ञासवः सर्वाणि कर्माणि भगवत्प्रीत्यर्थत्वेन तेषां फलाभिलाषमकृत्वा ज्ञानप्राप्तौ बुद्धिशुद्धिद्वारेण उपायत्वेन अनुतिष्ठन्ति, ते अत्र योगाः विवक्ष्यन्ते ।

अच्प्रत्ययस्य मत्वर्थत्वं गृहीत्वा, उक्तं -

योगिन इति ।

सर्वोऽपि द्वैतप्रपञ्चो न वस्तुभूतः, मायाविलासत्वात् , आत्मा तु, अविक्रियो अद्वितीयो वस्तुसन् इति प्रयोजकज्ञानं परमार्थज्ञानं, तत्पूर्वकसंन्यासद्वारेण कर्मिभिरपि तदेव स्थानं प्राप्याम् , इत्येकफलत्वं संन्यासकर्मयोगयोः अविरुद्धं, इत्याह -

तैरपीति ।

फलैकत्वे फलितमाह -

अत इति

॥ ५ ॥