श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं प्राप्तुम् अयोगतः योगेन विनायोगयुक्तः वैदिकेन कर्मयोगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्मपरमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते, न्यास इति ब्रह्मा ब्रह्मा हि परः’ (तै. ना. ७८) इति श्रुतेःब्रह्म परमार्थसंन्यासं परमार्थज्ञाननिष्ठालक्षणं नचिरेण क्षिप्रमेव अधिगच्छति प्राप्नोतिअतः मया उक्तम् कर्मयोगो विशिष्यते’ (भ. गी. ५ । २) इति ॥ ६ ॥

कर्मानुष्ठानाभावे बुद्धिशुद्ध्यभावात् परमार्थसंन्यासस्य सम्यग्ज्ञानात्मनो न प्राप्तिः इति व्यतिरेकमुपन्यस्य, अन्वयमुपन्यस्यति -

योगेति ।

पारमार्थिकः सम्यग्ज्ञानात्मकः । सामग्र्यभावे कार्यप्राप्तिरयुक्ता, इति मत्वा आह -

दुःखमिति ।

योगयुक्तत्वं व्याचष्टे -

वैदिकेनेति ।

ईश्वरस्वरूपस्य सविशेषस्येति शेषः ।

ब्रह्मेति व्याख्येयं पदम् उपादाय व्याचष्टे -

प्रकृत इति ।

तत्र ब्रह्मशब्दप्रयोगे हेतुमाह -

परमात्मेति ।

लक्षणशब्दो गमकविषयः । संन्यासे ब्रह्मशब्दप्रयोेगे तैत्तिरीयकश्रुतिं प्रमाणयति -

न्यास इति ।

कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते ? द्वयोरपि परत्वाविशेषात् , इत्याह -

ब्रह्मा हीति ।

ब्रह्मशब्दस्य संन्यासविषयत्वे फलितं वाक्यार्थमाह -

ब्रह्मेत्यादिना ।

नद्याः स्रोतांसीव निम्नप्रवणानि कर्मभिः अतितरां परिपक्ककषायस्य करणानि सर्वतो व्यापृतानि निरस्तशेषकूटस्थप्रत्यगात्मान्वेषणप्रवणानि भवन्ति इति ।

कर्मयोगस्य परमार्थसंन्यासप्राप्त्युपायत्वे फलितमाह -

अत इति

॥ ६ ॥