कर्मानुष्ठानाभावे बुद्धिशुद्ध्यभावात् परमार्थसंन्यासस्य सम्यग्ज्ञानात्मनो न प्राप्तिः इति व्यतिरेकमुपन्यस्य, अन्वयमुपन्यस्यति -
योगेति ।
पारमार्थिकः सम्यग्ज्ञानात्मकः । सामग्र्यभावे कार्यप्राप्तिरयुक्ता, इति मत्वा आह -
दुःखमिति ।
योगयुक्तत्वं व्याचष्टे -
वैदिकेनेति ।
ईश्वरस्वरूपस्य सविशेषस्येति शेषः ।
ब्रह्मेति व्याख्येयं पदम् उपादाय व्याचष्टे -
प्रकृत इति ।
तत्र ब्रह्मशब्दप्रयोगे हेतुमाह -
परमात्मेति ।
लक्षणशब्दो गमकविषयः । संन्यासे ब्रह्मशब्दप्रयोेगे तैत्तिरीयकश्रुतिं प्रमाणयति -
न्यास इति ।
कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते ? द्वयोरपि परत्वाविशेषात् , इत्याह -
ब्रह्मा हीति ।
ब्रह्मशब्दस्य संन्यासविषयत्वे फलितं वाक्यार्थमाह -
ब्रह्मेत्यादिना ।
नद्याः स्रोतांसीव निम्नप्रवणानि कर्मभिः अतितरां परिपक्ककषायस्य करणानि सर्वतो व्यापृतानि निरस्तशेषकूटस्थप्रत्यगात्मान्वेषणप्रवणानि भवन्ति इति ।
कर्मयोगस्य परमार्थसंन्यासप्राप्त्युपायत्वे फलितमाह -
अत इति
॥ ६ ॥