ननु पारिव्राज्यं परिगृह्य श्रवणादिसाधनम् असकृदनुतिष्ठतो लब्धसम्यग्बोधस्यापि यथापूर्वं कर्माणि उपलभ्यन्ते । तानि च बन्धहेतवो भविष्यन्ति, इत्याशङ्क्य, श्लोकान्तरम् अवतारयति -
यदा पुनरिति ।
सम्यग्दर्शनप्राप्त्युपायत्वेन यदा पुनः अयं पुरुषो योगयुक्तत्वादिविशेषणः सम्यग्दर्शी सम्पद्यते, तदा प्रातिभासिकीं प्रवृत्तिम् अनुसृत्य कुर्वन्नपि न लिप्यत इति योजना । योगेन - नित्यनैमित्तिककर्मानुष्ठानेन, इति यावत् ।