श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
न च असौ परमार्थतः करोतीत्यतः —

कर्माणि अङ्गीकृत्य तैः अस्य विदुषो बन्धो नास्ति इत्युक्तम् । इदानीं वस्तुतः तस्य कर्माण्येव न सन्ति, इत्याह -

नचेति ।

॥ ८ ॥