श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रलपन् विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
नैव किञ्चित् करोमीति युक्तः समाहितः सन् मन्येत चिन्तयेत् , तत्त्ववित् आत्मनो याथात्म्यं तत्त्वं वेत्तीति तत्त्ववित् परमार्थदर्शीत्यर्थः

लोकदृष्ट्या विदुषोऽपि कर्माणि सन्ति, इत्याशङ्क्य, स्वदृष्ट्या तदभावमभिप्रेत्य, आह -

नैवेति