सार्धं समनन्तरश्लोकम् आकाङ्क्षापूर्वकम् उत्थापयति -
कदेत्यादिना ।
चक्षुरादिज्ञानेन्द्रियैः वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैः अन्तःकरणचतुष्टयेन च तत्तच्चेष्टानिर्वर्तनावस्थायां तत्तदर्थेषु सर्वा प्रवृत्तिः इन्द्रियाणामेव, इत्यनुसन्दधानः नैव किञ्चित्करोमीति विद्वान् प्रतिपद्यते, इत्यर्थः ।
यथोक्तस्य विदुषः विध्यभावेऽपि विद्यासामर्थ्यात् प्रतिपत्तिकर्मभूतं कर्मसंन्यासं फलात्मकम् अभिलषति -
यस्येति ।
अज्ञस्येव विदुषोऽपि कर्मसु प्रवृत्तिसम्भवात् , कुतः संन्यासे अधिकारः स्याद् ? इत्याशङ्क्य, आह -
नहीति
॥ ९ ॥