श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रलपन् विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
कदा कथं वा तत्त्वमवधारयन् मन्येत इति, उच्यतेपश्यन्नितिमन्येत इति पूर्वेण सम्बन्धःयस्य एवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मसु अकर्मैव, पश्यतः सम्यग्दर्शिनः तस्य सर्वकर्मसंन्यासे एव अधिकारः, कर्मणः अभावदर्शनात् हि मृगतृष्णिकायाम् उदकबुद्ध्या पानाय प्रवृत्तः उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ॥ ९ ॥

सार्धं समनन्तरश्लोकम् आकाङ्क्षापूर्वकम् उत्थापयति -

कदेत्यादिना ।

चक्षुरादिज्ञानेन्द्रियैः वागादिकर्मेन्द्रियैः प्राणादिवायुभेदैः अन्तःकरणचतुष्टयेन च तत्तच्चेष्टानिर्वर्तनावस्थायां तत्तदर्थेषु सर्वा प्रवृत्तिः इन्द्रियाणामेव, इत्यनुसन्दधानः नैव किञ्चित्करोमीति विद्वान् प्रतिपद्यते, इत्यर्थः ।

यथोक्तस्य विदुषः विध्यभावेऽपि विद्यासामर्थ्यात् प्रतिपत्तिकर्मभूतं कर्मसंन्यासं फलात्मकम् अभिलषति -

यस्येति ।

अज्ञस्येव विदुषोऽपि कर्मसु प्रवृत्तिसम्भवात् , कुतः संन्यासे अधिकारः स्याद् ? इत्याशङ्क्य, आह -

नहीति

॥ ९ ॥