श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः
लिप्यते पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥
यस्तु पुनः अतत्त्ववित् प्रवृत्तश्च कर्मयोगे —

तर्हि विद्वानिव, अविद्वानपि कर्मणि न प्रवर्तेत, पापोपहतिसम्भवात् , इत्याशङ्क्य, आह -

यस्त्विति ।

यथा भृत्यः स्वाम्यर्थं कर्माणि करोति न स्वफलमपेक्षते, तथैव यो अविद्वान् मोक्षेऽपि सङ्गं त्यक्त्वा भगवदर्थमेव सर्वाणि कर्माणि करोति, न स स्वकर्मणा बध्यते । नहि पद्मपत्रम् अम्भसा सम्बध्यते, तद्वत् इत्यर्थः ॥ १० ॥