तर्हि विद्वानिव, अविद्वानपि कर्मणि न प्रवर्तेत, पापोपहतिसम्भवात् , इत्याशङ्क्य, आह -
यस्त्विति ।
यथा भृत्यः स्वाम्यर्थं कर्माणि करोति न स्वफलमपेक्षते, तथैव यो अविद्वान् मोक्षेऽपि सङ्गं त्यक्त्वा भगवदर्थमेव सर्वाणि कर्माणि करोति, न स स्वकर्मणा बध्यते । नहि पद्मपत्रम् अम्भसा सम्बध्यते, तद्वत् इत्यर्थः ॥ १० ॥