श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ११ ॥
कायेन देहेन मनसा बुद्ध्या च केवलैः ममत्ववर्जितैः ‘ईश्वरायैव कर्म करोमि, न मम फलाय’ इति ममत्वबुद्धिशून्यैः इन्द्रियैरपि — केवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यते — सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये इत्यर्थः । तस्मात् तत्रैव तव अधिकारः इति कुरु कर्मैव ॥ ११ ॥

केवलशब्दस्य प्रत्येकं सम्बन्धे प्रयोजनम् आह -

सर्वव्यापारेष्विति ।

कर्मणः चित्तशुद्धिफलत्वे तादर्थ्येन कर्मानुष्ठानमेव तव कर्तव्यमिति, यस्मादित्यस्यापेक्षितं वदन् फलितम् आह -

तस्मादिति

॥ ११ ॥