श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥ ११ ॥
कायेन देहेन मनसा बुद्ध्या केवलैः ममत्ववर्जितैःईश्वरायैव कर्म करोमि, मम फलायइति ममत्वबुद्धिशून्यैः इन्द्रियैरपिकेवलशब्दः कायादिभिरपि प्रत्येकं सम्बध्यतेसर्वव्यापारेषु ममतावर्जनाययोगिनः कर्मिणः कर्म कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये इत्यर्थःतस्मात् तत्रैव तव अधिकारः इति कुरु कर्मैव ॥ ११ ॥

केवलशब्दस्य प्रत्येकं सम्बन्धे प्रयोजनम् आह -

सर्वव्यापारेष्विति ।

कर्मणः चित्तशुद्धिफलत्वे तादर्थ्येन कर्मानुष्ठानमेव तव कर्तव्यमिति, यस्मादित्यस्यापेक्षितं वदन् फलितम् आह -

तस्मादिति

॥ ११ ॥