युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण
फले सक्तो निबध्यते ॥ १२ ॥
युक्तः ‘ईश्वराय कर्माणि करोमि न मम फलाय’ इत्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनः अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः, ‘मम फलाय इदं करोमि कर्म’ इत्येवं फले सक्तः निबध्यते । अतः त्वं युक्तो भव इत्यर्थः ॥ १२ ॥