श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
युक्तः कर्मफलं त्यक्त्वा
शान्तिमाप्नोति नैष्ठिकीम्
अयुक्तः कामकारेण
फले सक्तो निबध्यते ॥ १२ ॥
युक्तःईश्वराय कर्माणि करोमि मम फलायइत्येवं समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्याम् आप्नोति नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषःयस्तु पुनः अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः, ‘मम फलाय इदं करोमि कर्मइत्येवं फले सक्तः निबध्यतेअतः त्वं युक्तो भव इत्यर्थः ॥ १२ ॥

युक्तः सन् फलं त्यक्त्वा कर्म कुर्वन् मोक्षाख्यां शान्तिं यस्यादाप्नोति, तस्माच्च त्वया सङ्गं त्यक्त्वा कर्म कर्तव्यम् , इति योजन । विपक्षे दोषमाह -

अयुक्त इति ।

युक्तत्वं व्याकरोति -

ईश्वरायेति ।

फलं परित्यज्य कर्म कुर्वन् , इति शेषः ।

नैष्ठिकी शान्तिः इत्येतदेव विशदयति -

सत्त्वेति ।

द्वितीयम् अर्धं विभजते -

यस्त्विति ।

असमाधाने दोषात् अर्जुनस्य नियोगं दर्शयति -

अतस्त्वमिति

॥ १२ ॥