आरोपितकर्तृत्वाद्यभावेपि स्वगतकर्तृत्वादि दुर्वारम् , इति आशङ्कामनूद्य, दूषयति -
यद्यपीत्यादिना ।
क्रियासु प्रवर्तयन् आस्त इति पूर्वेण सम्बन्धः, पूर्वस्यापि शतुः एवमेव सम्बन्धः ।
कर्तृत्वं कारयितृत्वं च आत्मनो न, इत्यत्र विचारयति -
किमिति ।
यत्कर्तृत्वं कारयितृत्वं च, तत्किं देहिनः स्वात्मसमवायि सदेव संन्यासात् न भवतीत्युच्यते ? यथा गच्छतो देवदत्तस्य स्वगतैव गतिः, तत्स्थित्या त्यागान्न भवति, अथवा स्वारस्येन कर्तृत्वं कारयितृत्वं च आत्मनो नास्तीति वक्तव्यम् ; आद्ये सक्रियत्वं, द्वितीय कूटस्थत्वमित्यर्थः ।
द्वितीयं पक्षमाश्रित्य उत्तरमाह -
अत्रेति ।
उक्तेऽर्थे वाक्योपक्रमम् अनुकूलयति -
उक्तं हीति ।
तत्रैव वाक्यशेषमपि संवादयति -
शरीरस्थोऽपीति ।
स्मृत्युक्तेऽर्थे श्रुतिमपि दर्शयति -
ध्यायतीवेति ।
उपाधिगतैव सर्वा विक्रिया, न आत्मनि स्वतो अस्ति, इत्यर्थः ॥ १३ ॥