श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
यद्यपि कार्यकरणकर्माणि अविद्यया आत्मनि अध्यारोपितानिसंन्यस्यास्तेइत्युक्तम् , तथापि आत्मसमवायि तु कर्तृत्वं कारयितृत्वं स्यात् इति आशङ्क्य आहनैव कुर्वन् स्वयम् , कार्यकरणानि कारयन् क्रियासु प्रवर्तयन्किं यत् तत् कर्तृत्वं कारयितृत्वं देहिनः स्वात्मसमवायि सत् संन्यासात् सम्भवति, यथा गच्छतो गतिः गमनव्यापारपरित्यागे स्यात् तद्वत् ? किं वा स्वत एव आत्मनः अस्ति इति ? अत्र उच्यते अस्ति आत्मनः स्वतः कर्तृत्वं कारयितृत्वं उक्तं हि अविकार्योऽयमुच्यते’ (भ. गी. २ । २५) शरीरस्थोऽपि करोति लिप्यते’ (भ. गी. १३ । ३१) इतिध्यायतीव लेलायतीव’ (बृ. उ. ४ । ३ । ७) इति श्रुतेः ॥ १३ ॥

आरोपितकर्तृत्वाद्यभावेपि स्वगतकर्तृत्वादि दुर्वारम् , इति आशङ्कामनूद्य, दूषयति -

यद्यपीत्यादिना ।

क्रियासु प्रवर्तयन् आस्त इति पूर्वेण सम्बन्धः, पूर्वस्यापि शतुः एवमेव सम्बन्धः ।

कर्तृत्वं कारयितृत्वं च आत्मनो न, इत्यत्र विचारयति -

किमिति ।

यत्कर्तृत्वं कारयितृत्वं च, तत्किं देहिनः स्वात्मसमवायि सदेव संन्यासात् न भवतीत्युच्यते ? यथा गच्छतो देवदत्तस्य स्वगतैव गतिः, तत्स्थित्या त्यागान्न भवति, अथवा स्वारस्येन कर्तृत्वं कारयितृत्वं च आत्मनो नास्तीति वक्तव्यम् ; आद्ये सक्रियत्वं, द्वितीय कूटस्थत्वमित्यर्थः ।

द्वितीयं पक्षमाश्रित्य उत्तरमाह -

अत्रेति ।

उक्तेऽर्थे वाक्योपक्रमम् अनुकूलयति -

उक्तं हीति ।

तत्रैव वाक्यशेषमपि संवादयति -

शरीरस्थोऽपीति ।

स्मृत्युक्तेऽर्थे श्रुतिमपि दर्शयति -

ध्यायतीवेति ।

उपाधिगतैव सर्वा विक्रिया, न आत्मनि स्वतो अस्ति, इत्यर्थः ॥ १३ ॥