श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्तृत्वं कर्माणि लोकस्य सृजति प्रभुः
कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥
कर्तृत्वं स्वतः कुरु इति नापि कर्माणि रथघटप्रासादादीनि ईप्सिततमानि लोकस्य सृजति उत्पादयति प्रभुः आत्मानापि रथादि कृतवतः तत्फलेन संयोगं कर्मफलसंयोगम्यदि किञ्चिदपि स्वतः करोति कारयति देही, कः तर्हि कुर्वन् कारयंश्च प्रवर्तते इति, उच्यतेस्वभावस्तु स्वो भावः स्वभावः अविद्यालक्षणा प्रकृतिः माया प्रवर्तते दैवी हि’ (भ. गी. ७ । १४) इत्यादिना वक्ष्यमाणा ॥ १४ ॥

आत्मनो यदुक्तं कारयितृत्वं नास्तीति, तत्प्रपञ्चयति -

नेत्यादिना ।

यद्यपि लोकस्य कर्तृत्वं न सृजति, इति नास्ति कारयितृत्वं, तथापि रथशकटादीनि कुर्वन् भवति कर्ता, इत्याशङ्य, आह - न कर्माणीति ।

तथापि भोजयितृत्वेन विक्रियावत्त्वं दुष्परिहरम् , इत्याशङ्क्य, आह -

न कर्माणीति ।

कस्य तर्हि प्रवर्तकत्वं ? तदाह -

स्वभावस्त्विति ।

कुर्विति कर्तृत्वं लोकस्य न सृजति आत्मा, इति सम्बन्धः ।

रथादीनां कर्मत्वं साधयति -

ईप्सितेति ।

आत्मनो देहादिस्वामित्वेन प्रभुत्वम् ।

रथादिकृतवतो लोकस्य रथादिफलेन सम्बन्धमपि न सृजति आत्मा, इत्यात्मनो भोजयितृत्वं प्रत्याचष्टे -

नापीति ।

चतुर्थपादं शङ्कोत्तरत्वेन अवतारयति -

यदीत्यादिना ।

स्वभाववादस्तर्हि, इत्याशङ्क्य, व्याकरोति -

अविद्यालक्षणेति ।

प्रकृतेः विद्याभावत्वं व्युदसितुं  ‘माया’ इत्युक्तम् ।

सा च सप्तमे वक्ष्यते । तेन प्रधानविलक्षणा, इत्याह -

दैवी हीति

॥ १४ ॥