श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नादत्ते कस्यचित्पापं चैव सुकृतं विभुः
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
न आदत्ते न च गृह्णाति भक्तस्यापि कस्यचित् पापम् । न चैव आदत्ते सुकृतं भक्तैः प्रयुक्तं विभुः । किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह — अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम् , तेन मुह्यन्ति ‘करोमि कारयामि भोक्ष्ये भोजयामि’ इत्येवं मोहं गच्छन्ति अविवेकिनः संसारिणो जन्तवः ॥ १५ ॥

पूर्वार्धगतानि अक्षराणि व्याख्याय आकाङ्क्षापूर्वकम् उत्तरार्धमवतार्थ व्याचष्टे -

किमर्थमित्यादिना

॥ १५ ॥