श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥
ज्ञानेन तु येन अज्ञानेन आवृताः मुह्यन्ति जन्तवः तत् अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम् आत्मनः भवति, तेषां जन्तूनाम् आदित्यवत् यथा आदित्यः समस्तं रूपजातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वं प्रकाशयति तत् परं परमार्थतत्त्वम् ॥ १६ ॥

तर्हि सर्वेषाम् अनाद्यज्ञानावृतज्ञानत्वात् व्यामोहाभावाच्च कुतः संसारनिवृत्तिः ? इति ? तत्राह -

ज्ञानेनेति ।

सर्वमिति पूर्णत्वमुच्यते ।

ज्ञेयस्यैव वस्तुनः तत्परमिति विशेषणम् । तद्व्याचष्टे -

परमार्थतत्त्वमिति

॥ १६ ॥