श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्बुद्धयः, तदात्मानः तदेव परं ब्रह्म आत्मा येषां ते तदात्मानः, तन्निष्ठाः निष्ठा अभिनिवेशः तात्पर्यं सर्वाणि कर्माणि संन्यस्य तस्मिन् ब्रह्मण्येव अवस्थानं येषां ते तन्निष्ठाः, तत्परायणाश्च तदेव परम् अयनं परा गतिः येषां भवति ते तत्परायणाः केवलात्मरतय इत्यर्थःयेषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपुनर्देहसम्बन्धं ज्ञाननिर्धूतकल्मषाः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादिसंसारकारणदोषः येषां ते ज्ञाननिर्धूतकल्मषाः यतयः इत्यर्थः ॥ १७ ॥

तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि, बाह्यं विषयमपोह्य, गता - प्रवृत्ता श्रवणमनननिदिध्यासनैः असकृदनुष्ठितैर्बुद्धिः - साक्षात्कारलक्षणा, येषां ते, तथा, इति प्रथमविशेषणं विभजते -

तस्मिन्निति ।

तर्हि बोद्धा - जीवः, बोद्धव्यं - ब्रह्म इति, जीवब्रह्मभेदाभ्युपगमः ? नेत्याह -

तदात्मान इति ।

कल्पितं बोद्धृबोद्धव्यत्वं वस्तुतस्तु न भेदोऽस्ति इति अङ्गीकृत्य व्याचष्टे -

तदेवेति ।

ननु देहादौ आत्माभिमानमपनीय ब्रह्मण्येव ‘अहमस्मि’ इत्यवस्थानं तत्तदनुष्ठीयमानकर्मप्रतिबन्धात् न सिध्यति, इत्याशङ्क्य, विशेषणान्तरमादत्ते -

तन्निष्ठा इति ।

तत्र निष्ठाशब्दार्थं दर्शयन् विवक्षितम् अर्थमाह -

निष्ठेत्यादिना ।

तथापि पुरुषार्थान्तरापेक्षाप्रतिबन्धात् कथं यथोक्ते ब्रह्मण्येव अवस्थानं सेद्धुं पारयति ? तत्राह -

तत्परायणाश्चेति ।

यथोक्तानामधिकारिणां परमपुरुषार्थस्य उक्तब्रह्मानतिरेकात् नान्यत्रासक्तिः, इति तात्पर्यार्थमाह -

केवलेति ।

ननु यथोक्तविशेषणवतां वर्तमानदेहपातेऽपि देहान्तरपरिग्रहव्यग्रतया कुतो यथोक्ते ब्रह्मण्यवस्थानम् आस्थातुं शक्यते ? तत्राह -

ते गच्छन्तीति ।

सति संसारकारणे दुरितादौ, संसारप्रसरस्य दुर्वारत्वात् न अपुनरावृत्तिसिद्धिः, इत्याशङ्क्य, आह -

ज्ञानेति ।

उक्तविशेषसम्पत्त्या दर्शितफलशालित्वम् आश्रमान्तरेष्वसम्भावितम् , इति मन्वानः विशिनष्टि -

यतय इति

॥ १७ ॥