तस्मिन् परमार्थतत्त्वे परस्मिन् ब्रह्मणि, बाह्यं विषयमपोह्य, गता - प्रवृत्ता श्रवणमनननिदिध्यासनैः असकृदनुष्ठितैर्बुद्धिः - साक्षात्कारलक्षणा, येषां ते, तथा, इति प्रथमविशेषणं विभजते -
तस्मिन्निति ।
तर्हि बोद्धा - जीवः, बोद्धव्यं - ब्रह्म इति, जीवब्रह्मभेदाभ्युपगमः ? नेत्याह -
तदात्मान इति ।
कल्पितं बोद्धृबोद्धव्यत्वं वस्तुतस्तु न भेदोऽस्ति इति अङ्गीकृत्य व्याचष्टे -
तदेवेति ।
ननु देहादौ आत्माभिमानमपनीय ब्रह्मण्येव ‘अहमस्मि’ इत्यवस्थानं तत्तदनुष्ठीयमानकर्मप्रतिबन्धात् न सिध्यति, इत्याशङ्क्य, विशेषणान्तरमादत्ते -
तन्निष्ठा इति ।
तत्र निष्ठाशब्दार्थं दर्शयन् विवक्षितम् अर्थमाह -
निष्ठेत्यादिना ।
तथापि पुरुषार्थान्तरापेक्षाप्रतिबन्धात् कथं यथोक्ते ब्रह्मण्येव अवस्थानं सेद्धुं पारयति ? तत्राह -
तत्परायणाश्चेति ।
यथोक्तानामधिकारिणां परमपुरुषार्थस्य उक्तब्रह्मानतिरेकात् नान्यत्रासक्तिः, इति तात्पर्यार्थमाह -
केवलेति ।
ननु यथोक्तविशेषणवतां वर्तमानदेहपातेऽपि देहान्तरपरिग्रहव्यग्रतया कुतो यथोक्ते ब्रह्मण्यवस्थानम् आस्थातुं शक्यते ? तत्राह -
ते गच्छन्तीति ।
सति संसारकारणे दुरितादौ, संसारप्रसरस्य दुर्वारत्वात् न अपुनरावृत्तिसिद्धिः, इत्याशङ्क्य, आह -
ज्ञानेति ।
उक्तविशेषसम्पत्त्या दर्शितफलशालित्वम् आश्रमान्तरेष्वसम्भावितम् , इति मन्वानः विशिनष्टि -
यतय इति
॥ १७ ॥