विद्या - वेदार्थविज्ञानम् , इत्यङ्गीकृत्य विनयं व्याचष्टे -
विनय इति ।
उपशमः - निरहङ्कारत्वम् - अनौद्धत्यम् । पदार्थम् एवमुक्त्वा वाक्यार्थं दर्शयति -
विद्वानिति ।
‘गवि’ इत्यादि अनूद्य वाक्यार्थं कथयति-
विद्येति ।
हस्त्यादौ पण्डिताः ‘समदर्शिन’ इति उत्तरत्र सम्बन्धः ।
तत्र तत्र प्राणिभेदेषु तत्तद्गुणैः तत्तन्निमित्तसंस्कारैश्च संस्पृष्टत्वसम्भवात् न ब्रह्मणः समत्वम् , इत्याशङ्क्य आह -
सत्त्वादीति ।
‘तज्जैश्च’ इत्यत्र तच्छब्देन सत्त्वमेव गृह्यते ।
सात्त्विकसंस्कारैरिव राजससंस्काररैपि सर्वथैवासंस्पृष्टं ब्रह्म इत्याह -
तथेति ।
राजसैरिव तामसैरपि संस्कारैः ब्रह्म अत्यन्तमेव अस्पृष्टम् , इत्याह -
तथा तामसैरिति ।
ब्रह्मणोऽद्वितीयत्वं कूटस्थत्वमसङ्गत्वं च उक्तेऽर्थे हेतुः, इति मत्वा समशब्दार्थमाह -
सममिति ।
समदर्शित्वमेव पाण्डित्यम् , तद्व्याचष्टे -
ब्रह्मेति
॥ १८ ॥