श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि
शुनि चैव श्वपाके पण्डिताः समदर्शिनः ॥ १८ ॥
विद्याविनयसम्पन्ने विद्या विनयश्च विद्याविनयौ, विनयः उपशमः, ताभ्यां विद्याविनयाभ्यां सम्पन्नः विद्याविनयसम्पन्नः विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके पण्डिताः समदर्शिनःविद्याविनयसम्पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्त्विके, मध्यमायां राजस्यां गवि, संस्कारहीनायां अत्यन्तमेव केवलतामसे हस्त्यादौ , सत्त्वादिगुणैः तज्जैश्च संस्कारैः तथा राजसैः तथा तामसैश्च संस्कारैः अत्यन्तमेव अस्पृष्टं समम् एकम् अविक्रियं तत् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥ १८ ॥

विद्या - वेदार्थविज्ञानम् , इत्यङ्गीकृत्य विनयं व्याचष्टे -

विनय इति ।

उपशमः - निरहङ्कारत्वम् - अनौद्धत्यम् । पदार्थम् एवमुक्त्वा वाक्यार्थं दर्शयति -

विद्वानिति ।

‘गवि’ इत्यादि अनूद्य वाक्यार्थं कथयति-  

विद्येति ।

हस्त्यादौ पण्डिताः ‘समदर्शिन’ इति उत्तरत्र सम्बन्धः ।

तत्र तत्र प्राणिभेदेषु तत्तद्गुणैः तत्तन्निमित्तसंस्कारैश्च संस्पृष्टत्वसम्भवात् न ब्रह्मणः समत्वम् , इत्याशङ्क्य आह -

सत्त्वादीति ।

‘तज्जैश्च’ इत्यत्र तच्छब्देन सत्त्वमेव गृह्यते ।

सात्त्विकसंस्कारैरिव राजससंस्काररैपि सर्वथैवासंस्पृष्टं ब्रह्म इत्याह -

तथेति ।

राजसैरिव तामसैरपि संस्कारैः ब्रह्म अत्यन्तमेव अस्पृष्टम् , इत्याह -

तथा तामसैरिति ।

ब्रह्मणोऽद्वितीयत्वं कूटस्थत्वमसङ्गत्वं च उक्तेऽर्थे हेतुः, इति मत्वा समशब्दार्थमाह -

सममिति ।

समदर्शित्वमेव पाण्डित्यम् , तद्व्याचष्टे -

ब्रह्मेति

॥ १८ ॥