श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि
शुनि चैव श्वपाके पण्डिताः समदर्शिनः ॥ १८ ॥
येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं तत्त्वं पश्यन्ति इत्युच्यते —

यद् अपुनरावृत्तिसाधनं तत्त्वज्ञानं, तदेव प्रश्नद्वारेण विवृणोति -

येषामित्यादिना ।