स्मृतेर्गतिम् अग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति -
इहैवेति ।
सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेण तस्मिन्नेव देहे परिभूतजन्मनाम् अशेषदोषराहित्ये हेतुमाह -
निर्दोषं हीति ।
वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदर्शिनो विशिनष्टि -
येषामिति ।
ननु ब्रह्मणो निर्दोषत्वमसिद्धं, दोषवत्सु श्वपाकादिषु तद्दोषैर्दोषवत्त्वोपलम्भसम्भवात् , तत्राह -
यद्यपीति ।
यस्मात् तत् निर्दोषं, तस्मात् तस्मिन्ब्रह्मणि स्थितैःनिर्दोषैः सर्गो जितः, इति सम्बन्धः ।
ब्रह्मणो गुणभूयस्त्वात् अल्पीयान्दोषोऽपि स्यात् इत्याशङ्क्य, आह -
नापीति ।
चेतनस्य गुणविशेषविशिष्टत्वमनिष्टं निर्गुणत्वश्रवणात् इत्ययुक्तम् , इच्छादीनां परिशेषाद् आत्मधर्मत्वस्य कैश्चित् निश्चितत्वात् , इत्याशङ्क्य, आह -
वक्ष्यति चेति ।
आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति -
अनादित्वादिति ।
चकारः, वक्ष्यतीत्यनेन सम्बन्धार्थः ।
गुणदोषवशाद् आत्मानो भेदाभावेऽपि भेदः अन्त्यविशेषेभ्यो भविष्यति, इति प्रसङ्गात् आशङ्क्य, दूषयति -
नापीति ।
प्रतिशरीरम् आत्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं, तेषां च सत्त्वे प्रतिशरीरम् आत्मनो भेदसिद्धिः, इति परस्पराश्रयत्वमभिप्रेत्य हेतुमाह -
प्रतिशरीरमिति ।
आत्मानो भेदकाभावे फलितमाह -
अत इति ।
समत्वमेव व्याकरोति -
एकं चेति ।
ब्रह्मणो निर्विशेषत्वेन एकत्वाज्जीवानां च भेदकाभावेन एकत्वस्योक्तत्वाद् एकलक्षणत्वात् एकत्वं जीवब्रह्मणोः एष्टव्यम् , इत्याह -
तस्मादिति ।
जीवब्रह्मणो एकत्वे जीावानां ब्रह्मवत् निर्देषत्वं सिध्यति, इत्याह -
तस्मान्नेति ।
तच्छब्दार्थमेव स्फोरयति -
देहादीति ।
यदि सर्वसत्त्वेषु समत्वदर्शनमदुष्टमिष्टं, तर्हि कथं गौतमसूत्रम् ? इत्याशङ्क्य, आह -
देहादिसङ्घातेति ।
सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह -
पूजेति ।
यदि वा चतुर्वेदानामेव सप्तां पूजया वैषम्यं, यदि वा चतुर्वेदानां षडङ्गविदां च पूजया साम्यं, तदा, तेषाम् उक्तपूजाविषयाणां केषाञ्चित् मनोविकारसम्भवे कर्ता प्रत्यवैति, इति अविद्वद्विषयत्वं सूत्रस्य प्रतिभाति, इत्यर्थः ।
तत्रैव च अनुभवम् अऩुकूलत्वेन उदाहरति -
दृश्यते हीति ।
देहादिसङ्घाताभिमानवतां गुणदोषसम्बन्धसम्भवात् तद्विषयं सूत्रम् , इत्युक्तम् । इदानीं ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासम्बन्धात् न तद्विषय सूत्रम् , इत्यभिप्रेत्याह -
ब्रह्म त्विति ।
इतश्च नेदं सूत्रं ब्रह्मविद्विषयम् , इत्याह -
कर्मीति ।
तत्रैव पूजापरिभवसम्भवात् इत्यर्थः ।
ननु यत्र समत्वदर्शनं, तत्रैव तु इदं सूत्रं, नतु कर्मिणि अकर्मिणि वा इति विभागोऽस्ति, तत्राह -
इदं त्विति ।
समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह -
सर्वकर्माणीति ।
आऽध्यायपरिसमाप्तेः ‘सर्वकर्माणि’ इत्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात् तद्विषयम् इदं समत्वदर्शनं गम्यते । तत्र तन्निरहङ्कारे निरवकाशं सूत्रमित्यर्थः ॥ १९ ॥