श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९ ॥
इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणम्निर्दोषं यद्यपि दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते, तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ; नापि स्वगुणभेदभिन्नम् , निर्गुणत्वात् चैतन्यस्यवक्ष्यति भगवान् इच्छादीनां क्षेत्रधर्मत्वम् , अनादित्वान्निर्गुणत्वात्’ (भ. गी. १३ । ३१) इति नापि अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेःअतः समं ब्रह्म एकं तस्मात् ब्रह्मणि एव ते स्थिताःतस्मात् दोषगन्धमात्रमपि तान् स्पृशति, देहादिसङ्घातात्मदर्शनाभिमानाभावात् तेषाम्देहादिसङ्घातात्मदर्शनाभिमानवद्विषयं तु तत् सूत्रम् समासमाभ्यां विषमसमे पूजातः’ (गौ. ध. २ । ८ । २०) इति, पूजाविषयत्वेन विशेषणात्दृश्यते हि ब्रह्मवित् षडङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसम्बन्धः कारणम्ब्रह्म तु सर्वगुणदोषसम्बन्धवर्जितमित्यतःब्रह्मणि ते स्थिताःइति युक्तम्कर्मविषयं समासमाभ्याम्’ (गौ. ध. २ । ८ । २०) इत्यादिइदं तु सर्वकर्मसंन्यासविषयं प्रस्तुतम् , सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यारभ्य अध्यायपरिसमाप्तेः ॥ १९ ॥

स्मृतेर्गतिम् अग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति -

इहैवेति ।

सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेण तस्मिन्नेव देहे परिभूतजन्मनाम् अशेषदोषराहित्ये हेतुमाह -

निर्दोषं हीति ।

वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदर्शिनो विशिनष्टि -

येषामिति ।

ननु ब्रह्मणो निर्दोषत्वमसिद्धं, दोषवत्सु श्वपाकादिषु तद्दोषैर्दोषवत्त्वोपलम्भसम्भवात् , तत्राह -

यद्यपीति ।

यस्मात् तत् निर्दोषं, तस्मात् तस्मिन्ब्रह्मणि स्थितैःनिर्दोषैः सर्गो जितः, इति सम्बन्धः ।

ब्रह्मणो गुणभूयस्त्वात् अल्पीयान्दोषोऽपि स्यात् इत्याशङ्क्य, आह -

नापीति ।

चेतनस्य गुणविशेषविशिष्टत्वमनिष्टं निर्गुणत्वश्रवणात् इत्ययुक्तम् , इच्छादीनां परिशेषाद् आत्मधर्मत्वस्य कैश्चित् निश्चितत्वात् , इत्याशङ्क्य, आह -

वक्ष्यति चेति ।

आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति -

अनादित्वादिति ।

चकारः, वक्ष्यतीत्यनेन सम्बन्धार्थः ।

गुणदोषवशाद् आत्मानो भेदाभावेऽपि भेदः अन्त्यविशेषेभ्यो भविष्यति, इति प्रसङ्गात् आशङ्क्य, दूषयति -

नापीति ।

प्रतिशरीरम् आत्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं, तेषां च सत्त्वे प्रतिशरीरम् आत्मनो भेदसिद्धिः, इति परस्पराश्रयत्वमभिप्रेत्य हेतुमाह -

प्रतिशरीरमिति ।

आत्मानो भेदकाभावे फलितमाह -

अत इति ।

समत्वमेव व्याकरोति -

एकं चेति ।

ब्रह्मणो निर्विशेषत्वेन एकत्वाज्जीवानां च भेदकाभावेन एकत्वस्योक्तत्वाद् एकलक्षणत्वात् एकत्वं जीवब्रह्मणोः एष्टव्यम् , इत्याह -

तस्मादिति ।

जीवब्रह्मणो एकत्वे जीावानां ब्रह्मवत् निर्देषत्वं सिध्यति, इत्याह -

तस्मान्नेति ।

तच्छब्दार्थमेव स्फोरयति -

देहादीति ।

यदि सर्वसत्त्वेषु समत्वदर्शनमदुष्टमिष्टं, तर्हि कथं गौतमसूत्रम् ? इत्याशङ्क्य, आह -

देहादिसङ्घातेति ।

सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह -

पूजेति ।

यदि वा चतुर्वेदानामेव सप्तां पूजया वैषम्यं, यदि वा चतुर्वेदानां षडङ्गविदां च पूजया साम्यं, तदा, तेषाम् उक्तपूजाविषयाणां केषाञ्चित् मनोविकारसम्भवे कर्ता प्रत्यवैति, इति अविद्वद्विषयत्वं सूत्रस्य प्रतिभाति, इत्यर्थः ।

तत्रैव च अनुभवम् अऩुकूलत्वेन उदाहरति -

दृश्यते हीति ।

देहादिसङ्घाताभिमानवतां गुणदोषसम्बन्धसम्भवात् तद्विषयं सूत्रम् , इत्युक्तम् । इदानीं ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासम्बन्धात् न तद्विषय सूत्रम् , इत्यभिप्रेत्याह -

ब्रह्म त्विति ।

इतश्च नेदं सूत्रं ब्रह्मविद्विषयम् , इत्याह -

कर्मीति ।

तत्रैव पूजापरिभवसम्भवात् इत्यर्थः ।

ननु यत्र समत्वदर्शनं, तत्रैव तु इदं सूत्रं, नतु कर्मिणि अकर्मिणि वा इति विभागोऽस्ति, तत्राह -

इदं त्विति ।

समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह -

सर्वकर्माणीति ।

आऽध्यायपरिसमाप्तेः ‘सर्वकर्माणि’ इत्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात् तद्विषयम् इदं समत्वदर्शनं गम्यते । तत्र तन्निरहङ्कारे निरवकाशं सूत्रमित्यर्थः ॥ १९ ॥