श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ननु अभोज्यान्नाः ते दोषवन्तः, समासमाभ्यां विषमसमे पूजातः’ (गौ. ध. २ । ८ । २० ; १७ । १८) इति स्मृतेः ते दोषवन्तःकथम् ? —

सात्त्विकेषु राजसेषु तामसेषु च सत्वेषु समत्वदर्शनम् अनुचितम् , इति शङ्कते -

नन्विति ।

सर्वत्र समदर्शिनः तच्छब्देन परामृश्यन्ते ।

तेषां दोषवत्त्वाद् अभोज्यान्नत्वम् इत्यत्र प्रमाणमाह -

समासमाभ्यामिति ।

समानाम् - अध्ययनादिभिः समानधर्मकाणां, वस्रालङ्कारादिपूजया विषमे प्रतिपत्तिविशेषे क्रियमाणे सति, असमानाञ्च असमानधर्मकाणां - कस्यचित् एकवेदत्वम् , अपरस्य द्विवेदत्वमित्यादिधर्मवतां, प्रागुक्तया पूजया समे प्रतिपत्तिविशेषे, पूजयिता पुरुषविशेषं ज्ञात्वा प्रतिपत्तिमकुर्वन् , धनात् धर्माच्च हीयते । तेन सात्त्विके राजसतामसयोश्च समबुद्धिं कुर्वन् प्रत्यवैति, इत्यर्थः ।

उत्तरत्वेन उत्तरश्लोकमवतारयति -

न ते दोषवन्त इति ।

स्मृत्यवष्टम्भेन सर्वसत्त्वेषु समत्वदर्शिनां दोषवत्त्वमुक्तं कथं नास्ति ? इति, प्रतिज्ञामात्रेण सिध्यति, इति शङ्कते -

कथमिति ।