ननु हर्षविषादनिमित्तत्वं प्रियाप्रिययोः सिद्धम् , इति कथं तत्प्राप्त्या हर्षोद्वेगौ न कर्तव्यौ ? इति नियुज्यते, तत्राह -
देहेति ।
विदुषोऽपि प्रियाप्रियप्राप्तिसामर्थ्यादेव हर्षविषादौ दुर्वारौ, इत्याशङ्क्य, आह -
न केवलेति ।
अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगात् न तन्निमित्तौ हर्षविषादौ इत्यर्थः ।
इतोऽपि विदुषो हर्षविषादावसम्भावितौ इत्याह -
किञ्चेति ।
निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः, संमोहेन हर्षादिहेतुना रहितः, यथोक्ते सर्वदोषरहिते ब्रह्मणि ‘अहं अस्मि’ इति विद्यावान् , अशेषदोषशून्ये तस्मिन्नेव ब्रह्मणि स्थितः तदनुरोधात् कर्माणि अमृष्यमाणः नैव हर्षविषादभागी भवितुमलमित्यर्थः ॥ २० ॥