श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥
प्रहृष्येत् प्रहर्षं कुर्यात् प्रियम् इष्टं प्राप्य लब्ध्वा उद्विजेत् प्राप्य अप्रियम् अनिष्टं लब्ध्वादेहमात्रात्मदर्शिनां हि प्रियाप्रियप्राप्ती हर्षविषादौ कुर्वाते, केवलात्मदर्शिनः, तस्य प्रियाप्रियप्राप्त्यसम्भवात्किञ्च — ‘सर्वभूतेषु एकः समः निर्दोषः आत्माइति स्थिरा निर्विचिकित्सा बुद्धिः यस्य सः स्थिरबुद्धिः असंमूढः संमोहवर्जितश्च स्यात् यथोक्तब्रह्मवित् ब्रह्मणि स्थितः, अकर्मकृत् सर्वकर्मसंन्यासी इत्यर्थः ॥ २० ॥

ननु हर्षविषादनिमित्तत्वं प्रियाप्रिययोः सिद्धम् , इति कथं तत्प्राप्त्या हर्षोद्वेगौ न कर्तव्यौ ? इति नियुज्यते, तत्राह -

देहेति ।

विदुषोऽपि प्रियाप्रियप्राप्तिसामर्थ्यादेव हर्षविषादौ दुर्वारौ, इत्याशङ्क्य, आह -

न केवलेति ।

अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तप्रियाप्रियप्राप्त्ययोगात् न तन्निमित्तौ हर्षविषादौ इत्यर्थः ।

इतोऽपि विदुषो हर्षविषादावसम्भावितौ इत्याह -

किञ्चेति ।

निर्दोषे ब्रह्मणि प्रागुक्ते दृढप्रतिपत्तिः, संमोहेन हर्षादिहेतुना रहितः, यथोक्ते सर्वदोषरहिते ब्रह्मणि ‘अहं अस्मि’ इति विद्यावान् , अशेषदोषशून्ये तस्मिन्नेव ब्रह्मणि स्थितः तदनुरोधात् कर्माणि अमृष्यमाणः नैव हर्षविषादभागी भवितुमलमित्यर्थः ॥ २० ॥