श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
बाह्यस्पर्शेष्वसक्तात्मा
विन्दत्यात्मनि यत्सुखम्
ब्रह्मयोगयुक्तात्मा
सुखमक्षयमश्नुते ॥ २१ ॥
बाह्यस्पर्शेषु बाह्याश्च ते स्पर्शाश्च बाह्यस्पर्शाः स्पृश्यन्ते इति स्पर्शाः शब्दादयो विषयाः तेषु बाह्यस्पर्शेषु, असक्तः आत्मा अन्तःकरणं यस्य सः अयम् असक्तात्मा विषयेषु प्रीतिवर्जितः सन् विन्दति लभते आत्मनि यत् सुखं तत् विन्दति इत्येतत् ब्रह्मयोगयुक्तात्मा ब्रह्मणि योगः समाधिः ब्रह्मयोगः तेन ब्रह्मयोगेन युक्तः समाहितः तस्मिन् व्यापृतः आत्मा अन्तःकरणं यस्य सः ब्रह्मयोगयुक्तात्मा, सुखम् अक्षयम् अश्नुते व्याप्नोतितस्मात् बाह्यविषयप्रीतेः क्षणिकायाः इन्द्रियाणि निवर्तयेत् आत्मनि अक्षयसुखार्थी इत्यर्थः ॥ २१ ॥

यावद्यावत् विषयेषु रागरूपमावरणं निवर्तते, तावत्तावत् आत्मस्वरूपसुखमभिव्यक्तं भवति, इत्याह -

बाह्येति ।

न केवलम् असक्तात्मा शमवशादेव सुखं विन्दते, किन्तु ब्रह्मसमाधिना समाहितान्तःकरणः सुखमनन्तं प्राप्नोति, इत्याह -

स ब्रह्मेति ।

तत्र पूर्वार्धं व्याचष्टे -

बाह्याश्चेति ।

समाधिसम्यग्ज्ञानद्वारा निरतिशयसुखप्राप्तिमुत्तरार्धव्याख्यानेन कथयति -

ब्रह्यणीत्यादिना ।

शब्दादिविषयविमुखस्य अनन्तसुखाप्तिसम्भवात् तदर्थिना, प्रयत्नेन विषयवैमुख्यं कर्तव्यम् , इति शिष्यशिक्षार्थम् आह -

तस्मादिति

॥ २१ ॥