श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते
आद्यन्तवन्तः कौन्तेय तेषु रमते बुधः ॥ २२ ॥
ये हि यस्मात् संस्पर्शजाः विषयेन्द्रियसंस्पर्शेभ्यो जाताः भोगा भुक्तयः दुःखयोनय एव ते, अविद्याकृतत्वात्दृश्यन्ते हि आध्यात्मिकादीनि दुःखानि तन्निमित्तान्येवयथा इहलोके तथा परलोकेऽपि इति गम्यते एवशब्दात् संसारे सुखस्य गन्धमात्रमपि अस्ति इति बुद्ध्वा विषयमृगतृष्णिकाया इन्द्रियाणि निवर्तयेत् केवलं दुःखयोनय एव, आद्यन्तवन्तश्च, आदिः विषयेन्द्रियसंयोगो भोगानाम् अन्तश्च तद्वियोग एव ; अतः आद्यन्तवन्तः अनित्याः, मध्यक्षणभावित्वात् इत्यर्थःकौन्तेय, तेषु भोगेषु रमते बुधः विवेकी अवगतपरमार्थतत्त्वः ; अत्यन्तमूढानामेव हि विषयेषु रतिः दृश्यते, यथा पशुप्रभृतीनाम् ॥ २२ ॥

वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति -

ये हीति ।

ननु विषयेन्द्रियसम्प्रयोगसम्प्रसूतेषु भोगेषु जन्तूमाम् अभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वम् ? इत्याशङ्क्य, अविवेकिनां तेष्वासङ्गेऽपि न विवेकिनाम् , इत्याह -

आद्यन्तवन्त इति ।

यस्मात् आधिव्याधिजरामरणादिसहितेभ्यः समागमनादिक्लेशरूपभागिभ्यश्च विषयेन्द्रिय - सम्बन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते, तस्मात् ते दुःखहेतवो भवन्ति, इति योजना ।

अविद्याकार्यत्वात् दुःखानां कुतो भोगजन्यत्वम् ? इत्याशङ्क्य, भोगानाम् अविद्याप्रयुक्तत्वात् तन्निबन्धनत्वं दुःखानां युक्तम् , इत्यभिप्रेत्य आह -

अविद्येति ।

भोगानां दुःखयोनित्वे मानवमनुभवम् उपन्यस्यति -

दृश्यन्ते हीति ।

ऐहिकानां भोगानां दुःखनिमित्तत्वेऽपि न आमुष्मिकाणां तथात्वम् , अनुभवाभावात् , इत्याशङ्क्य, अवधारणसामर्थ्यसिद्धमर्थम् आह -

यथेति ।

पूर्वार्धस्य अक्षरार्थमुक्त्वा तात्पर्यार्थमाह -

नेत्यादिना ।

इतश्च विषयेभ्यः सकाशात् इन्द्रियाणि निवर्तयित्व्यानि, इत्याह -

न केवलमिति ।

आद्यन्तवत्त्वे मध्यक्षणवर्तित्वेन क्षणभङ्गुरत्वात् उपेक्षणीयत्त्वं भोगानां सिध्यति ।

अस्ति हि तेषां क्षणभङ्गुरत्वं क्षणिकविषयाकारमनोवृत्तिव्यङ्ग्यत्वात् , इति मन्वानः सन् आह -

अत इति ।

बुद्धिपूर्वकारिणां विवेकवतां भोगेषु उपेक्षोपलब्धेश्च तेषामाभासत्वं प्रतिभाति, इत्याह -

न तेष्विति ।

प्रतीकोपादानमाद्यमिदं पुनर्व्याख्यानमिति, न पुनरुक्तिः ।

ननु केषाञ्चिद् भोगेष्वभिरुचिः उपलभ्यते, तत्राह -

अत्यन्तेति

॥ २२ ॥