वैराग्यार्थमेव वैषयिकाणि सुखानि दूषयति -
ये हीति ।
ननु विषयेन्द्रियसम्प्रयोगसम्प्रसूतेषु भोगेषु जन्तूमाम् अभिरुचिदर्शनात् कुतस्तेषां दुःखयोनित्वम् ? इत्याशङ्क्य, अविवेकिनां तेष्वासङ्गेऽपि न विवेकिनाम् , इत्याह -
आद्यन्तवन्त इति ।
यस्मात् आधिव्याधिजरामरणादिसहितेभ्यः समागमनादिक्लेशरूपभागिभ्यश्च विषयेन्द्रिय - सम्बन्धेभ्यो भोगाः सुखलवानुभवा जायन्ते, तस्मात् ते दुःखहेतवो भवन्ति, इति योजना ।
अविद्याकार्यत्वात् दुःखानां कुतो भोगजन्यत्वम् ? इत्याशङ्क्य, भोगानाम् अविद्याप्रयुक्तत्वात् तन्निबन्धनत्वं दुःखानां युक्तम् , इत्यभिप्रेत्य आह -
अविद्येति ।
भोगानां दुःखयोनित्वे मानवमनुभवम् उपन्यस्यति -
दृश्यन्ते हीति ।
ऐहिकानां भोगानां दुःखनिमित्तत्वेऽपि न आमुष्मिकाणां तथात्वम् , अनुभवाभावात् , इत्याशङ्क्य, अवधारणसामर्थ्यसिद्धमर्थम् आह -
यथेति ।
पूर्वार्धस्य अक्षरार्थमुक्त्वा तात्पर्यार्थमाह -
नेत्यादिना ।
इतश्च विषयेभ्यः सकाशात् इन्द्रियाणि निवर्तयित्व्यानि, इत्याह -
न केवलमिति ।
आद्यन्तवत्त्वे मध्यक्षणवर्तित्वेन क्षणभङ्गुरत्वात् उपेक्षणीयत्त्वं भोगानां सिध्यति ।
अस्ति हि तेषां क्षणभङ्गुरत्वं क्षणिकविषयाकारमनोवृत्तिव्यङ्ग्यत्वात् , इति मन्वानः सन् आह -
अत इति ।
बुद्धिपूर्वकारिणां विवेकवतां भोगेषु उपेक्षोपलब्धेश्च तेषामाभासत्वं प्रतिभाति, इत्याह -
न तेष्विति ।
प्रतीकोपादानमाद्यमिदं पुनर्व्याख्यानमिति, न पुनरुक्तिः ।
ननु केषाञ्चिद् भोगेष्वभिरुचिः उपलभ्यते, तत्राह -
अत्यन्तेति
॥ २२ ॥