प्रसिद्धं हि कामक्रोधोद्भवस्य वेगस्य दुर्निवारत्वं, येन मातरमपि चाधिरोहति, पितरमपि हन्ति, तमवश्यं परिहर्तव्यं दर्शयति -
शक्नोतीति ।
यथोक्तं वेगं बहिरनर्थरूपेण परिणामात्प्रागेव देहान्तरुत्पन्नं यः सोढुं क्षमते, तं स्तौति -
स युक्त इति ।
मरणसीमाकरणस्य तात्पर्यमाह -
मरणेति ।
प्रसिद्धौ हि शब्दः । तत्र हेतुमाह -
अनन्तेति ।
व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवति, इत्याशङ्क्य, आह -
यावदिति ।
कामक्रोधोद्भवं वेगं व्याख्यातुम् आदौ कामं मनोविकारविशेषत्वेन व्याचष्टे -
काम इति ।
कथमस्य मनोविकारविशेषत्वं ? तदाह -
इन्द्रियेति ।
कामः, गार्धिः, तृष्णा इति पार्यांयाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः । क्रोधश्च मनोविकारविशेषः तद्वतः, तृष्णा इति पर्यायाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः ।
क्रोधश्च मनोविकारविशेषः तद्वत् , इत्याह -
क्रोधश्चेति ।
तमेव क्रोधं स्पष्टयति -
आत्मन इति ।
एवं कामक्रोधौ व्याख्याय, तयोरुत्कटत्वावस्थात्मनो वेगस्य ताभ्यामुत्पत्तिमुपन्यस्यति -
ताविति ।
यथोक्तवेगावगमोपायमुपदिशति -
रोमाञ्चनप्रहृष्टनेत्रेत्यादिना ।
उभयविधवेगं यो जीवन्नेव सोढुं शक्नोति, तं पुरुषधौरेयत्वेन स्तौति - तमित्यादिना ॥ २३ ॥