श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शक्नोतीहैव यः सोढुं प्राक्छरीरविमोक्षणात्
कामक्रोधोद्भवं वेगं युक्तः सुखी नरः ॥ २३ ॥
शक्नोति उत्सहते इहैव जीवन्नेव यः सोढुं प्रसहितुं प्राक् पूर्वं शरीरविमोक्षणात् मरणात् इत्यर्थःमरणसीमाकरणं जीवतोऽवश्यम्भावि हि कामक्रोधोद्भवो वेगः, अनन्तनिमित्तवान् हि सः इति यावत् मरणं तावत् विस्रम्भणीय इत्यर्थःकामः इन्द्रियगोचरप्राप्ते इष्टे विषये श्रूयमाणे स्मर्यमाणे वा अनुभूते सुखहेतौ या गर्धिः तृष्णा कामः ; क्रोधश्च आत्मनः प्रतिकूलेषु दुःखहेतुषु दृश्यमानेषु श्रूयमाणेषु स्मर्यमाणेषु वा यो द्वेषः सः क्रोधः ; तौ कामक्रोधौ उद्भवो यस्य वेगस्य सः कामक्रोधोद्भवः वेगःरोमाञ्चनप्रहृष्टनेत्रवदनादिलिङ्गः अन्तःकरणप्रक्षोभरूपः कामोद्भवो वेगः, गात्रप्रकम्पप्रस्वेदसन्दष्टोष्ठपुटरक्तनेत्रादिलिङ्गः क्रोधोद्भवो वेगः, तं कामक्रोधोद्भवं वेगं यः उत्सहते प्रसहते सोढुं प्रसहितुम् , सः युक्तः योगी सुखी इह लोके नरः ॥ २३ ॥

प्रसिद्धं हि कामक्रोधोद्भवस्य वेगस्य दुर्निवारत्वं, येन मातरमपि चाधिरोहति, पितरमपि हन्ति, तमवश्यं परिहर्तव्यं दर्शयति -

शक्नोतीति ।

यथोक्तं वेगं बहिरनर्थरूपेण परिणामात्प्रागेव देहान्तरुत्पन्नं यः सोढुं क्षमते, तं स्तौति -

स युक्त इति ।

मरणसीमाकरणस्य तात्पर्यमाह -

मरणेति ।

प्रसिद्धौ हि शब्दः । तत्र हेतुमाह -

अनन्तेति ।

व्याध्युपहतानां वृद्धानां च कामादिवेगो न भवति, इत्याशङ्क्य, आह -

यावदिति ।

कामक्रोधोद्भवं वेगं व्याख्यातुम् आदौ कामं मनोविकारविशेषत्वेन व्याचष्टे -

काम इति ।

कथमस्य मनोविकारविशेषत्वं ? तदाह -

इन्द्रियेति ।

कामः, गार्धिः, तृष्णा इति पार्यांयाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः । क्रोधश्च मनोविकारविशेषः तद्वतः, तृष्णा इति पर्यायाः सन्तः शब्दाः मनोविकारविशेषे पर्यवस्यन्ति, इत्यर्थः ।

क्रोधश्च मनोविकारविशेषः तद्वत् , इत्याह -

क्रोधश्चेति ।

तमेव क्रोधं स्पष्टयति -

आत्मन इति ।

एवं कामक्रोधौ व्याख्याय, तयोरुत्कटत्वावस्थात्मनो वेगस्य ताभ्यामुत्पत्तिमुपन्यस्यति -

ताविति ।

यथोक्तवेगावगमोपायमुपदिशति -

रोमाञ्चनप्रहृष्टनेत्रेत्यादिना ।

उभयविधवेगं यो जीवन्नेव सोढुं शक्नोति, तं पुरुषधौरेयत्वेन स्तौति - तमित्यादिना ॥ २३ ॥