श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः
योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥
यः अन्तःसुखः अन्तः आत्मनि सुखं यस्य सः अन्तःसुखः, तथा अन्तरेव आत्मनि आरामः आरमणं क्रीडा यस्य सः अन्तरारामः, तथा एव अन्तः एव आत्मन्येव ज्योतिः प्रकाशो यस्य सः अन्तर्ज्योतिरेव, यः ईदृशः सः योगी ब्रह्मनिर्वाणं ब्रह्मणि निर्वृतिं मोक्षम् इह जीवन्नेव ब्रह्मभूतः सन् अधिगच्छति प्राप्नोति ॥ २४ ॥

यथा अन्तरेव सुखं न बाह्यविषयैः, तथा अन्तरेव ज्योतिर्न श्रोत्रादिभिः । अतो विषयान्तरविज्ञानरहितः, इत्याह -

तथेति ।

यथोक्तविशेषणसमाधिमान् जीवन्नेव मुक्तिमधिगच्छति, इत्याह -

स योगीति ।

आत्मनि अन्तः - सुखमिति वाह्यविषयनिरपेक्षत्वं विवक्षितम् । अन्तरारामत्वं च स्त्र्यादिविषयापेक्षामान्तरेण क्रीडाप्रयुक्तफलभाक्त्वम् मतम् । इन्द्रियादिजन्यप्रकाशशून्यत्वम् आत्मज्योतिष्ट्वम् इष्टम् । यथोक्तविशेषणसम्पन्नः समाहितश्च जीवन्नेव ब्रह्मभावं प्राप्नोति ।

ब्रह्मणि परिपूर्णे निर्वृतिं - सर्वानर्थनिवृत्त्युपलक्षितां स्थितिमनतिशयानन्दाविर्भावलक्षणां, प्राप्नोति, इत्याह -

य ईदृश इति

॥ २४ ॥