यज्ञादिनित्यकर्मानुष्ठानात् पापादिलक्षणं कल्मषं क्षीयते, ततश्च श्रवणाद्यावृत्तेः सम्यग्दर्शनं जायते ततो मुक्तिरप्रयत्नेन भवति, इत्याह -
लभन्त इति ।
ज्ञानप्राप्त्युपायान्तरं दर्शयति -
छिन्नेति ।
श्रवणादिना संशयनिरसनं कार्यकरणनियमनं च, दयालुत्वेन अहिंसकत्वम् इत्येतदपि सम्यग्ज्ञानप्राप्तौ कारणमित्यर्थः । अक्षरव्यास्व्यानं स्पष्टत्वात् न व्याख्यायते ॥ २५ ॥